| 1 [व] ततः परवेशनं चक्रे तस्यां राजा युधिष्ठिरः अयुतं भॊजयाम आस बराह्मणानां नराधिपः 2 घृतपायसेन मधुना भक्ष्यैर मूलफलैस तथा अहतैश चैव वासॊभिर माल्यैर उच्चावचैर अपि 3 ददौ तेभ्यः सहस्राणि गवां परत्येकशः परभुः पुण्याहघॊषस तत्रासीद दिवस्पृग इव भारत 4 वादित्रैर विविधैर गीतैर गन्धैर उच्चावचैर अपि पूजयित्वा कुरुश्रेष्ठॊ दैवतानि निवेश्य च 5 तत्र मल्ला नटा झल्लाः सूता वैतालिकास तथा उपतस्थुर महात्मानं सप्तरात्रं युधिष्ठिरम 6 तथा स कृत्वा पूजां तां भरातृभिः सह पाण्डवः तस्यां सभायां रम्यायां रेमे शक्रॊ यथा…