| 1 [न] युधिष्ठिर सभा दिव्या वरुणस्य सितप्रभा परमाणेन यथा याम्या शुभप्राकारतॊरणा 2 अन्तः सलिलम आस्थाय विहिता विश्वकर्मणा दिव्यरत्नमयैर वृक्षैः फलपुष्पप्रदैर युता 3 नीलपीतासित शयामैः सितैर लॊहितकैर अपि अवतानैस तथा गुल्मैः पुष्पमञ्जरि धारिभिः 4 तथा शकुनयस तस्यां नानारूपा मृदु सवराः अनिर्देश्या वपुष्मन्तः शतशॊ ऽथ सहस्रशः 5 सा सभा सुखसंस्पर्शा न शीता न च घर्मदा वेश्मासनवती रम्या सिता वरुणपालिता 6 यस्याम आस्ते स वरुणॊ वारुण्या सह भारत दिव्यरत्नाम्बर धरॊ भूषणैर उपशॊभितः 7 सरग्विणॊ भूषिताश चापि…