| 1 [न] पुरा देवयुगे राजन्न आदित्यॊ भगवान दिवः आगच्छन मानुषं लॊकं दिदृक्षुर विगतक्लमः 2 चरन मानुषरूपेण सभां दृष्ट्वा सवयं भुवः सभाम अकथयन मह्यं बराह्मीं तत्त्वेन पाण्डव 3 अप्रमेयप्रभां दिव्यां मानसीं भरतर्षभ अनिर्देश्यां परभावेन सर्वभूतमनॊरमाम 4 शरुत्वा गुणान अहं तस्याः सभायाः पाण्डुनन्दन दर्शनेप्सुस तथा राजन्न आदित्यम अहम अब्रुवम 5 भगवन दरष्टुम इच्छामि पितामह सभाम अहम येन सा तपसा शक्या कर्मणा वापि गॊपते 6 औषधैर वा तथायुक्तैर उत वा मायया यया तन ममाचक्ष्व भगवन पश्येयं तां सभां कथम 7 ततः स भगवान…