| 1 [व] ततः कुमार विषये शरेणिमन्तम अथाजयत कॊसलाधिपतिं चैव बृहद्बलम अरिंदमः 2 अयॊध्यायां तु धर्मज्ञं दीर्घप्रज्ञं महाबलम अजयत पाण्डवश्रेष्ठॊ नातितीव्रेण कर्मणा 3 ततॊ गॊपाल कच्छं च सॊत्तमान अपि चॊत्तरान मल्लानाम अधिपं चैव पार्थिवं वयजयत परभुः 4 ततॊ हिमवतः पार्श्वे समभ्येत्य जरद गवम सर्वम अल्पेन कालेन देशं चक्रे वशे बली 5 एवं बहुविधान देशान विजित्य पुरुषर्षभः उन्नाटम अभितॊ जिग्ये कुक्षिमन्तं च पर्वतम पाण्डवः सुमहावीर्यॊ बलेन बलिनां वरः 6 स काशिराजं समरे सुबन्धम अनिवर्तिनम वशे चक्रे महाबाहुर भीमॊ…